2. அஹீநமான ஸோமயாகங்கள்
13. अङ्गिरसां द्विरात्रம் - இதில் முதல்நாள் ज्योतिष्टोमமான अग्निष्टोमம் ; இரண்டாவதுநாள் सर्वस्तोमமான अतिरात्रம். सर्वस्तोमமாவது- बहिष्पवमानம ்- 9; आज्यங்கள்-15; माध्यन्दिनपवमानம் - 17; पृष्ठங்கள் -21; आर्भवपवमानம் - 27; अग्निष्टोमसामம் - 33. उक्थ्यஸ்தோத்திரங்கள் முதல் இறங்கி வருகிறது - முதலாவது - 27; மற்ற இரண்டும் - 21; ராத்திரி पर्यायங்கள்-15; सन्धिस्तोत्रம் - 9. ஸவநீய பசு - 11; यूपங்கள் - 11; ரசனை - 11. இதில் षोडशिग्रहம் உண்டாவென்று விசாரிக்கப்படுகிறது. (ताण्ड्य.ब्रा.अध्या-20, खण्डः-11; मीमांसा-अध्या-10,पा-5, अधि-13).
ताण्ड्य.ब्रा.अध्या-20, खण्डः-11
1 - ज्योतिष्टोमोऽग्निष्टोमः पूर्वं अहः सर्वस्तोमोऽतिरात्र उत्तरम्
2 - तस्य चतुर्विंशं बहिष्पवमानं पञदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं अथैकविंशं अथ सप्तदशं एकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत्सन्धिः
3 - अङ्गिरसः स्वर्गं लोकं आयंस्तेषां हविष्मांश्च हविष्कृच्चाङ्गिरसावहीयेता तावागच्छेतां यतोऽङ्गिरसः स्वर्गं लोकं आयंस्तावतप्येतां तावेते सामनी अपश्यतां ताभ्यां द्विरात्रं अतन्वातां तेन स्वर्गं लोकं ऐताम्
4 - यः पौण्यो हीन इव स्यात्स एतेन यजेताप्नोति पूर्वेषां प्रहां आप्नुतां हि तावङ्गिरसः
5 - प्रजाकामो यजेत द्वितीयं ह्येतद्यत्प्रजाः
6 - स्वर्गकामो यजेत द्वितीयाद्धि लोकात्परो लोकोऽभिप्रक्रम्यो दुराधो द्विरात्र इत्याहुर्यदग्निष्टोमः पूर्वं अहर्भवत्युक्थ्यं अन्तर्यन्ति यद्युक्थ्योऽग्निष्टोमम्
7 - यज्ज्योतिरुक्थ्यः पूर्वं अहर्भवति नाग्निष्टोमं अन्तर्यन्ति नोक्थानि
8 - तदाहुरेषा वाव यज्ञस्य मात्रा यदग्निष्टोमो यदग्निष्टोमः पूर्वं अहर्भवति यज्ञस्य मात्रां नातिक्रामत्यथोत्तरस्याह्न उक्थेभ्योऽधि रात्रिं उपयन्ति तेनोक्थान्यनन्तरितानि
9 - चतुर्विंशं बहिष्पवमानं भवत्युत्तरस्याह्नश्चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
10 - उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात्प्रजायते
11 - सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं एवैतेनाप्नोति सर्वं जयति
मीमांसा-अध्या-10,पा-5, अधि-13
10.5.13.53 - अभावादतिरात्रेषु गृह्यते ॥
10.5.13.54 - अन्वयो वाऽनारभ्यविधानात् ॥
Go to Main Page